तत्र ऋग्वेदस्याष्टभेदा भवन्ति। शाकल बाष्कलौ (2), ऐतरेय ब्राह्मणारण्यकौ (2), शाङ्खायनमाण्डूकौ 2, कौषीतकीयब्राह्मणारण्यकौ (2) इत्यष्टभेदाः (8)।

अन्येष्टभेदा यथा -

वेदा विकृतिशाखाश्च भेदस्तु त्रिविधस्तथा।

पृथङ्नानाविधानेन व्यासेन कथितं पुरा।। 1।। इति।

अत्राष्टभेदेनाष्टस्थानेन वा विकृतिर्गाह्या। विकृतिस्तु अग्रे वक्ष्यते। तस्माद् ब्रह्मयज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्तव्यम्।। 4।।

ततश्चतुष्पदेन वक्ष्यति -