तत्र चरका नाम द्वादश भेदा भवन्ति। चरका- आह्वरकाः- कठाः- प्राच्यकठाः- कपिष्ठलकठा- आरायणीया- वारायणीया- वार्त्तान्तवेया- श्श्वेताश्वतरा- औपमन्यवः- पाताण्डनीया मैत्रायणीयाश्चेति।
तत्र मैत्रायणीया नाम षड् भेदा भवन्ति। मानवा- वाराहा- दुन्दुभा-श्छागलेया- हारिद्रवेया- श्यामायनीयाश्चेति। तेषामध्ययनम्।
द्वे सहस्रे शते न्यूने मन्त्रे वाजसनेयके।
ऋग्गणः परिसङ्ख्यातं ततोन्यानि यजूंषि च।।
अष्टौ शतानि सहस्राणि चाष्टाविंशतिरन्यान्यधिकश्च पादमेतत्प्रमाणं यजुषां हि केवलं सवालखिल्यं सशुक्रियं ब्राह्म्यञ्च चतुर्गुणम्।
तत्र तैत्तिरीयका नाम द्विभेदा भवन्ति। औखेयाः खाण्डिकेयाश्चेति।
तत्र खाण्डिकेया नाम पञ्च भेदा भवन्ति। कालेता- शाट्यायनी- हैरण्यकेशी- भारद्वाज्या-पस्तम्बी चेति। तेषामध्ययनम्। अष्टादश यजुस्सहस्राण्यधीत्य शाखापारो भवति। तान्येव द्विगुणान्यधीत्यपदपारो भवति। तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति। षडङ्गान्यधीत्य षडङ्गविद्भवति।
त्रिगुणं पठ्यते यत्र मन्त्रब्राह्मणयोस्सह।
यजुर्वेद स्स विज्ञेय श्शेषा श्शाखान्तरा स्स्मृताः।।
शिक्षा कल्पो व्याकरणं निरुक्त ञ्छन्दो ज्योतिषमिति षडङ्गानि।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोथ पठ्यते।
ज्योतिषामयनं चक्षु र्निरुक्तं श्रोत्रमुच्यते।।
शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते।। (पाणिनीय शिक्षा)
तथा प्रतिपदमनुपदं छन्दोभाषा- धर्मो- मीमांसान्याय- स्तर्क इत्युपाङ्गानि। तत्र परिशिष्टानि भवन्ति। यूपलक्षणं- छागलक्षणं- प्रतिज्ञा-नुवाकसङ्ख्या- चरणव्यूह- श्राद्धकल्प- शुल्बकानि- पार्षदम्, ऋग्यजूंषी-ष्टकापूरणं- प्रवराध्याय- उक्थशास्त्र- क्रतुसङ्ख्या- निगमा- यज्ञपार्श्वहौत्रकं- प्रसवोत्थानं- कूर्मलक्षणम्- इत्यष्टादश परिशिष्टानि भवन्ति।
तत्र (चरकेषु) कठानां योगा येन विशेषस्तत्र प्राच्योदीच्य-नैर्ऋत्य-वाजसनेया नाम पञ्चदश भेदा भवन्ति। जाबाला- बौद्धायनाः- काण्वा- माध्यन्दिनेयाः- शाफेया- स्तापनीयाः- कपोलाः- पौण्ड्रवत्सा- आवटिकाः- परमावटिकाः- पाराशरा- वैणेया- वैधेया- अद्धा- बौधेयाश्चेति । तेषामध्ययनं सौक्तिकं प्रवचनीयाश्चेति द्वेधा।
मन्त्र- ब्राह्मण- कल्पाना मङ्गानां यजुषामृचाम्।
षण्णां यः प्रविभागज्ञः सोध्वर्य्युः कृत्स्नमुच्यते।। 1।।
अथ द्वितीयखण्डं व्थाख्यायते-
यजुर्वेदस्य षडशीतिर्भेदा (86) भवन्ति। अत्र शाखाभेदो ग्राह्यः। षट् अशीतिर्भेदा इत्यर्थः। तत्र चरकानां द्वादश भेदा भवन्तीति स्पष्टार्थः।
ते के भेदाः? चरकाः, आह्वरकाः, कठाः, प्राच्यकठाः, कपिष्ठलकठाः, आरायणीया, वारायणीया, वार्तान्तवेया, श्वेताश्वतरा, औपमन्यवः, पाताण्डनीया, मैत्रायणीयाश्चेति।
मैत्रायणीयानां षड् भेदा भवन्ति। मानवा, वाराहाः, दुन्दुभाः, छागलेया, हारिद्रवेया, श्यामायनीयाश्चेति षट् मैत्रायणीय शाखागणा इत्यर्थः। मैत्रायणीयानां केचित्सप्त भेदा भवन्ति- इति वदन्ति। श्यामा इत्यधिकं तदधिकमेव।
मैत्रायणीयस्तु वाजसनेयवेदाध्यायी। मानवं कल्पसूत्रम्। तेषामध्ययनम्। अष्टोत्तरशतं यजुस्सहस्राण्यधीत्य शाखापारो भवति। तेषामध्ययने द्विचत्वारिंशदध्यायाः (42)। अष्टशताधिकसहस्रमन्त्रा (1,800) इत्यर्थः। तान्येव द्विगुणान्यधीत्य पदपारो भवति। द्विवारपठनात् पदपारायणफलं भवतीत्यर्थः। तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति। त्रिवारपठनात् क्रमपारायणफलं भवतीत्यर्थः। पदक्रमाध्ययनं भवतीत्यर्थः।
षडङ्गान्यधीत्य षडङ्गविद्भवति।
तानि कानि षडङ्गानि ? उच्यन्ते- शिक्षादीनि षडङ्गानि भवन्ति।
षडुपाङ्गान्यपि प्रतिपदादि तर्कान्तानि भवन्ति। तस्मिन् यजुर्वेदे यूपलक्षणादि-कूर्मलक्षणान्तान्यष्टादश परिशिष्टसूत्राणि भवन्ति। एतेषां व्याख्यानान्यग्रे वक्ष्यामः। तत्र प्राच्योदीच्यां नैर्ऋत्यां निर्ऋत्यः। तत्र वाजसनेयानां पञ्चदश भेदा भवन्ति। प्राच्य उदीच्य नैर्ऋत्येषु तिसृषु दिक्षु वाजसनेयवेदोत्पत्तिमग्रे वक्ष्यामः। इतरदेशेषु वेदशाखयोर्विभाग उच्यते।
तच्च महार्णवे-
पृथिव्या मध्यरेखा च नर्मदा परिकीर्तिता।
दक्षिणोत्तरयो र्भागे शाखा वेदाश्च उच्यते।। 1।।
नर्मदा दक्षिणे भागे आपस्तम्ब्याश्वलायनी।
राणायनी पिप्पला च यज्ञकन्या??विभागिनः।। 2।।
माध्यन्दिनी शाङ्खायनी कौथुमी शौनकी तथा।
नर्मदोत्तरभागे च यज्ञकन्या?विभागिनः।। 3।।
तुङ्गा कृष्णा तथा गोदा सह्याद्रिशिखरावधि।
आ आन्ध्रदेशपर्यन्तं बह्वृचश्चाश्वलायनी।। 4।।
उत्तरे गुर्जरे देशे वेदो बह्वृच ईरितः।
कौषीतकीब्राह्मणं च शाखा शाङ्खायनी स्थिता।। 5।।
आन्ध्रादि दक्षिणाग्नेयी गोदा सागर आवधि।
यजुर्वेदस्तु तैत्तिर्य आपस्तम्बी प्रतिष्ठिता।। 6।।
सह्याद्रिपर्वतारम्भा द्दिशा न्नैर्ऋत्यसागरात्।
हिरण्यकेशी शाखा च पर्शुरामस्य सन्निधौ।। 7।।
मयूरपर्वताच्चैव यावद्गुर्जरदेशतः।
व्याप्ता वायव्यदेशात्तु मैत्रायणी प्रतिष्ठिता।। 8।।
अङ्गवङ्ग कलिङ्गश्च कानीनो गुर्जरस्तथा।
वाजसनेयी शाखा च माध्यन्दिनी प्रतिष्ठिता।। 9।।
ऋषिणा याज्ञवल्क्येन सर्वदेशेषु विस्तृता।
वाजसनेयवेदस्य प्रथमा काण्वसञ्ज्ञका।। 10।। इति।
व्यासशिष्यो वैशम्पायनो निगदाख्यं यजुर्वेदं पठित्वा शिष्यान् चकार। तच्च भागवते-
वैशम्पायनशिष्या वै चरकाध्वर्यवोभवन्।
यच्चेरु र्ब्रह्महत्यांहः क्षपणं स्वगुरो र्व्रतम्।। 1।।
याज्ञवल्क्यश्च तच्छिष्य आहांहो भगवन्कियत्।
चरितेनाल्पसाराणां चरिष्येहं सुदुश्चरम्।। 2।।
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया।
विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति।। 3।।
देवरातसुत स्सोपि च्छर्दित्वा यजुषां गणम्।
ततो गतोथ मुनयो ददृशु स्तान् यजुर्गणान्।। 4।।
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः।
तैत्तिरीया इति यजु श्शाखा आसन् सुपेशलाः।। 5।।
याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधि गवेषयन्।
गुरो रविद्यमानानि सूपतस्थेर्कमीश्वरम्।। 6।।
याज्ञवल्क्य उवाच- ओं नमो भगवते आदित्याय .. इत्यारभ्य (1) यातयामयजुः काम उपसरामि, इत्यन्तं तुष्टाव।
सूत उवाच-
एवं स्तुत स्स भगवान् वाजिरूपधरो हरिः।
यजूँष्ययातयामानि मुनयेदात् प्रसादितः।। 7।।
यजुर्भि रकरोच्छाखा दश पञ्चशतै र्विभुः।
जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः।। 8।।
इत्यादि ग्रन्थपर्यालोचनया यजुर्वेदत्यागानन्तरं देवरातसुतेन याज्ञवल्क्येन, अब्राह्मणत्वभिया, शाखारण्डत्वपरिहारार्थं चातुर्वेद्यत्व-सङ्ख्यासंरक्षणार्थञ्च वाजिरूपेण सवित्रा सूर्येण, (वाजेभ्यः केसरेभ्यः वाजेन वेगेन वा) सन्यस्ताः त्यक्ताः शाखा (वाजसनेयी सञ्ज्ञकाः) गृहीताः। एवमयातयामानि यजूंषि मुनये वृत्तानि। तैर्यजुर्भि रुपरतैः स मुनिस्ताः वाजसन्यः पञ्चदश शाखा अकरोत्।
तस्माच्च मुनेः सकाशात् काण्वा माध्यन्दिनादय अध्ययनं चक्रुः। ते पञ्चदश भवन्ति। अथ प्रसङ्गाद्यजुर्वेदस्य शाखाप्रणयनविचारः किञ्चिदुच्यते। तत्र यजुर्वेद एव प्रथमः।
तथा च विष्णुपुराणे-
एक एव यजुर्वेद - स्तं चतुर्द्धा व्यकल्पयत्। इति।
यजुर्वेदो यज्ञोपयोगित्वरूप योगात् सर्वोपि वेदो यजुर्वेद इत्युच्यते। यजुर्वेदस्य शाखाभेदं सविस्तरमाह-
यजुर्वेदतरो श्शाखा स्सप्तविंशन्महामुने।
वैशम्पायननामासौ व्यासशिष्य श्चकार वै।। 1।।
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेप्यनुक्रमात्।
याज्ञवल्क्यस्तु तस्याभूद् ब्रह्मरातसुतो द्विज।। 2।।
शिष्यः परमधर्मज्ञो गुरुवृत्तिरत स्सदा।
ऋषिर्योद्य महामेरो स्समाजेनागमिष्यति।। 3।।
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति।
पूर्वमेवं मुनिगणै स्समयो यः कृतो द्विज।। 4।।
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा।
स्वस्रीयं बालकं सोथ पदधृष्ट मघातयत्।। 5।।
शिष्यानाह स भो श्शिष्या ब्रह्महत्यापहं व्रतम्।
चरध्वं मत्कृते सर्वे न विचार्यमिद न्तथा।। 6।।
अथाह याज्ञवल्क्यस्तु किमेतै र्बहुभि र्द्विजैः।
क्लेशितै रल्पतेजोभि श्चरिष्येहमिदं व्रतम्।। 7।।
ततः कुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम्।
मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक।। 8।।
निस्तेजसो वदस्येनान् यत्त्वं ब्राह्मणपुङ्गवान्।
तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्गकारिणा।। 9।।
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम्।
ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज।। 10।।
श्रीपराशर उचाच-
इत्युक्तो रुधिराक्तानि सरूपाणि यजूँषि सः।
छर्द्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः।। 11।।
यजूँष्यथ विसृष्टानि याज्ञल्क्येन वै द्विज।
जगृहु स्तित्तिरा भूत्वा तैत्तिर्यास्तु तत स्स्मृताः।। 12।।
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु तैः।
चक्रुराध्वर्यवन्ते तु चरणान्मुनिसत्तम।। 13।।
याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः।
तुष्टाव प्रयत स्सूर्यं यजूँष्यभिलषंस्ततः।। 14।।
अस्यार्थः - यजुर्वेदतरोः इत्यादिना सप्तविंशतिः। इयञ्च प्रधानशाखानां सङ्ख्या। ब्रह्माण्डपुराणोक्त षडशीतिशाखाभेदस्तु प्रतिशाखाविवक्षया ताश्च शुक्लयजुः पञ्चदशकं, सहेत्येकशाखा आपस्तम्बोक्ता इति द्रष्टव्यम्।
याज्ञवल्क्येन छर्द्दितै र्यैर्यजुर्भि, स्तैत्तिरीयशाखा बभूव। ते याज्ञवल्क्यव्यतिरिक्ता वैश्म्पायनशिष्या याज्ञवल्क्येन छर्द्दितं विप्ररूपेण ग्रहीतुमनुचितमिति तित्तिरपक्षिणो भूत्वा याज्ञवल्क्यविसृष्टानि यजूँषि जगृहुः। ततस्ता श्शाखास्तैत्तिरीया बभूवुरित्यर्थः। याज्ञवल्क्यव्यतिरिक्तानां चरकाध्वर्युसञ्ज्ञां निर्वक्ति। चरकाध्वर्यवत्वे वै चरणान्मुनिसत्तम। वरकाध्वर्यव इति पाठे वरणाद्यजुषां ग्रहणात्। आध्वर्यवं चक्रुरित्यर्थः। यजूँषि वैशम्पायनेनाधीतानि।
याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधिगवेषयन्।
गुरोरविद्यमानानि सूपतस्थेर्कमीश्वरम्।। इति भागवतोक्तेः।
याज्ञवल्क्य उवाच-
नम स्सवित्रे द्वाराय मुक्तेरमिततेजसे।
ऋग्यजु स्सामरूपाय त्रयीधामात्मने नमः।। 15।।
इत्यादि .. पराशर उवाच इत्यन्तां स्तुतिं कृत्वा-
इत्येवमादिभिस्तेन स्तूयमान स्स वै रविः।
वाजिरूपधरः प्राह व्रियता मभिवाञ्छितम्।।16।।
याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम्।
यजूँषि तानि मे देहि यानि सन्ति न मे गुरौ।। 17।।
पराशर उवाच-
एवमुक्तो ददौ तस्मै यजूँषि भगवान् रविः।
अयातयामसञ्ज्ञानि यानि वेत्ति न तद्गुरुः।। 18।।
यजूँषि यैरधीतानि तानि विप्रै र्द्विजोत्तम।
वाजिनस्ते समाख्याता स्सूर्याश्व स्सोभवद्यतः।। 19।।
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम्।
काण्वाद्यास्तु महाभागा याज्ञवल्क्यप्रवर्त्तिताः।। 20।। इति।
तद्गुरुवैशम्पायनो यानि न वेत्ति, तेषां व्यासेनानुपदिष्टत्वादिति भावः। वाजिन स्समाख्याता वाजिरूपसूर्यप्रोक्तसंहिताध्यायित्वात्।
अग्निपुराणेपि-
काण्वा माध्यन्दिनी सञ्ज्ञा कठी माध्यकठी तथा।
मैत्रायणीयसञ्ज्ञा च तैत्तिरीयाभिवानका।। 1।।
वैशम्पायनिकेत्याद्या श्शाखा याजुषसञ्ज्ञिताः। इति।
आदिशब्देन एतदन्यशाखाग्रहणम्।
वाजसनीयवेदोत्पात्तिरित्यर्थः। याजुषशाखाः - जाबाला, बौघायनाः, काण्वाः, माध्यन्दिनेयाः, शाफेयाः, तापनीयाः, कपोलाः, पौण्डरवत्साः, आवटिकाः, परमावटिकाः, पाराशराः, वैणेयाः, वैधेयाः, अद्धाः, बौधेयाः- इति पञ्चदश शाखा इत्यर्थः।
अष्टादश परिशिष्टानि (कात्यायन प्रणीतानि)
प्रतिपदमनुपदम् - प्रतिपदे अनुपदं अल्पपदं कर्तव्यमित्यर्थः। छन्दः छन्दोरत्नाकरादि। भाषा शब्दपरिभाषा। धर्मः धर्मशास्त्रं मिताक्षरादि। मीमांसा प्रसिद्धा। (जैमिनिमहर्षिकृतमध्याय-द्वादशकम्।) न्यायस्तर्कः। न्यायशब्देन काणादसूत्रम्। तर्कशब्देन गौतमसूत्रम्। इति षडुपाङ्गानि। उपज्योतिषं- ज्योतिश्शास्रम्। साङ्गलक्षणं सामुद्रिकादि। यूपलक्षणं, छागलक्षणं च यज्ञे प्रसिद्धम्। प्रतिज्ञासूत्रं खण्ड त्रयात्मकम्। अनुवाकाध्यायः- वेदशाखालपरिज्ञानार्थं चरणव्यूहसूत्रम्। श्राद्धसूत्रं नवखण्डात्मकम्। श्रौतयज्ञार्थ मण्डप रचनात्मकं शुल्बसूत्रम्। पार्षद परिशिष्टसूत्रम्। ऋग्यजुर्निर्णयात्मकं ऋग्यजुः परिशिष्टसूत्रम्। इष्टकापूरण परिशिष्टसूत्रम्। गौत्रप्रवर निर्णयार्थः प्रवराध्यायः। उक्थ्यशास्त्रपरिशिष्टम्। क्रतुसङ्ख्या। निगम- यज्ञपार्श्व- हौत्रक- प्रसवोत्थान- कूर्मलक्षण परिशिष्टपञ्चकं यज्ञेषु प्रयोजनं प्रसिद्धम्।
एतानि परिशिष्टान्यष्टादश सङ्ख्यकानि कात्यायन महर्षिप्रणीतानि।
द्वे सहस्रे शते न्यूने मन्त्रे वाजसनेयके।
ऋग्गणः परिसङ्ख्यात - मेतत्सर्वं सशुक्रियम्।।
वाजसनेयके वेदे नवशताधिकसहस्रमन्त्रा इत्यर्थः। एतत्सकलं सशुक्रियमन्त्रं ऋचं वाच्यम्। इति षट् त्रिंशदध्यायोक्त चतुर्विंशदृचात्मकसहितं, मध्याह्ने शुक्लवर्णेन सूर्येण दत्त स्सशुक्रयज्ञः परिसङ्ख्यात इत्यर्थः। वेदोपक्रमणे चतुर्द्दशी युक्त पौर्णिमाग्रहणात् शुक्लयजुः। प्रतिपदायुक्त पौर्णिमा ग्रहणात् कृष्णयजुरिति वा। ऋक्सङ्ख्या पञ्चविंशत्युत्तर - एकोनविंशतिः (1925)। खिलमन्त्राः अग्निश्च- इति षड्विंशत्यध्यायोक्ताः। यजु स्सङ्ख्या अष्टाविंशत्युत्तर- अष्टशतान्यष्टौ सहस्राणि। ब्राह्मणञ्च चतुर्गुणम्- वेदचतुर्गुणं शतपथब्राह्मणमित्यर्थः।
यजुर्वेदतरो रासन् शाखा एकोत्तरं शतम्।
तत्रापि च शिवा श्शाखा दश पञ्च च वाजिनाम्।।
तत्रापि मुख्या विज्ञेया शाखा या कण्वसञ्ज्ञका। इति ग्रन्थान्तरे।
तैत्तिरीयकानां द्विभेदा भवन्ति - औखेया, खाण्डिकेयाश्चेति। खाण्डिकेयानां पञ्च भेदा भवन्ति। कालेता- शाट्यायनी- हिरेण्यकेशी- भारद्वाजी- आपस्तम्बी- इति। तेषामध्ययनपरिमाणम्-
काण्डास्तु सप्त विज्ञेयाः प्रश्नाश्चाधिक्यकाश्चतुः।
चत्वारिंशत्तु विज्ञेया अनुवाकाः शतानि षट्।। 1।।
एकपञ्चाशदधिका स्सङ्ख्याः पञ्चाशदुच्यते।
द्विसहस्रञ्चैकशत - मष्टानवति चाधिका।। 2।।
लक्षैकन्तु द्विनवति सहस्राणि प्रकीर्त्तितम्।
पदानि नवतिश्चैव तथैवाक्षरमुच्यते।। 3।।
लक्षद्वयं त्रिपञ्चाशत् सहस्राणि शताष्टकम्।
अष्टषष्ट्याधिकञ्चैव यजुर्वेदप्रमाणकम्।। 4।।
काण्डाः 7। प्रश्नाः 44। अनुवाकाः 651। पञ्चाशतः (पन्नाशी) 2198। पदानि 192,090। अक्षराणि 253,868।
शाखावाक्यान्ययुतानि सहस्राणि नवानि च।
चतुश्शतान्यशीतिश्च अष्टौ वाक्यानि गण्यते।।1।।
इति ब्राह्मणे वाक्यसङ्ख्या 19,480। अष्टौ वाक्यानि पञ्चाशत् इति सूच्यते। इति तैत्तिरीय- निगद वेदाख्य सङ्ख्योक्ता- इत्यर्थः।
तत्र कठानान्तु उपगायतु चतुश्चत्वारिंशदुपग्रन्थाः। चतुश्चत्वारिंश दुपग्रन्थाः अध्यायाः। समीपे उक्ताश्चत्वारिंशत् चतुश्चत्वारिंशत्।
मन्त्रब्राह्मणयो र्वेद- स्रिगुणं यत्र पठ्यते।
यजुर्वेद स्सविज्ञेय श्चान्ये शाखान्तरा स्स्मृताः।।
मन्त्रश्च ब्राह्मणञ्च मन्त्रब्राह्मणे। तयोर्मन्त्रब्राह्मणयोः वेद इति सञ्ज्ञा। तदुक्तं - मन्त्रव्राह्मणयोर्वेद इति नामधेयम् - इत्यृक्शाखीय प्रातिशाख्य भाष्यकारेण उव्वटेन, आपस्तम्ब सामान्यसूत्रभाष्यकारेण कपर्द्दिना धूर्त्तस्वामिना च। तथा च सति मन्त्रो नाम संहिता। मन्त्रः, तादृङ्भन्त्ररूपसंहितायाः तन्मध्ये एव, तदग्रे ब्राह्मणत्वेन पठन मिति, उभयथापि संहितात्वेन पदत्वेन क्रमत्वेन च पठनं त्रिगुणं पठनमिति, स मन्त्र ब्राह्मणयो र्वेदस्त्रिगुणं यत्र पठ्यते इत्यर्थः। एतादृशपठनं शाखाया अध्ययनं, स यजुर्वेदः। तच्च तैत्तिरीयशाखायामेवास्ति।
तथा हि। सम्पश्यामि प्रजा अहमिडप्रजसो मानवीः। इति संहितामन्त्रः। एतस्यैव ब्राह्मणं संहितायामेव तदग्रे एव- सम्पश्यामि प्रजा अहमित्याह यावन्त एव - इति ब्राह्मणमित्युभयोरपि संहितात्वेन पदत्वेन क्रमत्वेन पठनं त्रिगुणितं पठनं भवति। एतादृशमुदाहरणान्तरमाह- इमा मगृभ्ण न्रशना मृतस्य पूर्व आयुषि विदथेषु कव्या - इति संहितामन्त्रः। एतस्यैव ब्राह्मणं संहितायामेव, तदग्रे एव संहितारूपेण वर्तते। तत्कथम्? इत्यपेक्षायामाह- इमामगृभ्ण न्रशना मृतस्येत्यश्वाभिधानीमादत्ते - इति ब्राह्मणम्। अनयोरपि त्रिगुणत्वेन पठनम्।
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः- इति त्रिगुणत्वेन पठनं भवति। एते त्रिगुणाः कस्या अपि शाखायान्न भवन्ति गाथासङ्ग्रन्थत्वात्। एवमन्यान्यपि बहूनि वाक्यानि सन्ति, तानि विस्तरभयान्नोक्तानि। अतः कारणात् अन्ये शाखान्तरा स्स्मृताः। तेषामध्ययनम्।
प्रवचनीयाश्चेति- एतेषां शुक्लकृष्णयजुषां पठनं प्रवचनीयाः प्रतिवचनत्वेन आर्षीयपाठत्वेन च समाप्तमित्यर्थः।
अन्यान्यपि पुराणवाक्यानि सङ्गृहीतानि-
अग्निमीड नमस्तुभ्य मिषे त्वोर्ज्जे लसत्तनुः।
अग्न आयाहि वीतये शन्नो देवी स्वरूपवान्।। 1।।
इषे त्वोर्ज्जे यजुर्वेदशब्दः पुरुष एव च।
नभश्च पूर्णिमासूर्य उदयव्यापिनी तथा।।2।।
सङ्गृह्यमाणो यो वेदं प्रतिवर्षे व्रतं चरेत्।
यातयामनिवृत्त्यर्थ छन्दस्य च विशेषतः।। 3।।
तस्योष्णिक् छन्दलोमेषु गायत्री च त्वचा स्मृता।
मांसेषु त्रिष्टुभं विद्या- दनुष्टुब् रुधिर स्स्मृतः।। 4।।
अस्थीषु जगती चैव मज्जासु पाङ्किरेव च।
प्राणेषु बृहती छन्दो यजुर्वेदस्य लक्षणम्।। 5।।
एतदर्थे ऐतरेयश्रुतिः- शुक्लकृष्णकनीनिकेति स यदि ह वा अपि मृषा वदति, य एवमेतं छन्दसां छन्दस्त्वं वेद इत्यन्तम्।
पुण्याहवाचने मन्त्रान् प्रोक्षणे कङ्कणस्य च।
सभायां ब्रह्मयज्ञे च इषे त्वोर्ज्जे यजुः पठेत्।। 1।।
शाङ्ख्यायनं ब्रह्मयज्ञे इषे त्वोर्ज्जे यजु स्स्मरेत्।
श्रौते स्मार्तें च पूर्त्ते च सर्वकर्मसु योजितः।। 2।।
ऋग्यजु स्सामाथर्वांश्च सभायां कुण्डमण्डपे।
ब्रह्मयज्ञे प्रतिसरे पठेद्वै स्वस्तिवाचने।। 3।।
अन्यत्र समुदायश्च प्रायश्चित्ते सभासु ते।
यजुर्वेदोपनिषदे मन्त्रा श्शाकलसञ्ज्ञकाः।। 4।।
उपदिष्टा श्शौनकेन आत्मशिष्याय शाकले।
तेषां शाकलमन्त्राणां यजुस्सञ्ज्ञा समीरिता।। 5।।
यस्य वेदे शाकलमन्त्राः, तस्य यजुस्सञ्ज्ञा इत्यर्थः।।1।।
व्याख्या चरणव्यूहस्य यजुःखण्डस्य तेन वै।।
विस्तारिता यथा बुद्धि महादेवप्रसादतः।।
इति चरण व्यूहे द्वितीयखण्ड व्याख्या समाप्ता।
इति द्वितीयः यजुर्वेंदखण्ड स्समाप्तः।