अथर्ववेदस्य नव भेदा भवन्ति। पैप्पला- शौनका- दान्ता - प्रदान्ता- औता- जाबाला- ब्रह्मपलाशा- कुनखीवेददर्शी- चारणविद्याश्चेति। द्वादशैव सहस्राणि पञ्चकल्पानि भवन्ति। कल्पे कल्पे पञ्चशतानि भवन्ति। नक्षत्रकल्पो- विधानकल्पो- विधिविधानकल्पः- संहिताकल्पाः- शान्तिकल्पश्चेति। तत्र वेदानामुपवेदा श्चत्वारो भवन्ति। ऋग्वेदस्यायुर्वेद उपवेदो, यजुर्वेदस्य धनुर्वेद उपवेदः, सामवेदस्य गान्घर्वयेदो,थर्ववेदस्यार्थशास्रं चेत्याह भगवान्व्यास स्स्कन्दो वा।
य इमे वेदाश्चत्वार स्तेषामेकैकस्य कीद्दशं रूपं वर्णविधोच्यते।
ऋग्वेदः- पद्मपत्राक्षः- सुविभक्तग्रीवः- कुञ्चितकेशश्मश्रुः- श्वेतवर्णो- वर्णेन कीर्त्तितं प्रमाणं तावत्तिष्ठन्वितस्तीः पञ्च।
यजुर्वेदः पिङ्गाक्षः कृशमध्य- स्थूलगलकपोल- स्ताम्रवर्णः- कृष्णवर्णो वा- प्रादेशमात्रः षड्दीर्घत्वेन।
सामवेदो- नित्यं स्रग्वी- सुप्रयत- श्शुचिवासा- श्शमी- दान्तो- बृहच्छरीरः- शमी- दण्डी- कातरनयन- आदित्यवर्णो- वर्णेन नवारत्निमात्रः।
अथर्ववेद- स्तीक्ष्णः- प्रचण्डः- कामरूपी- विश्वकर्त्ता- क्षुद्रकर्मा- स्वशाखाध्यायी- प्राज्ञश्च- महानीलोत्पलवर्णो- वर्णेन दशारत्निमात्रः
ऋग्वेदस्यात्रेयसगोत्रं सोमदैवत्यं गायत्री छन्दो,
यजुर्वेदस्य काश्यपस गोत्र- मिन्द्रदैवत्य- न्त्रिष्टुप्छन्दः,
सामवेदस्य भारद्वाज सगोत्रं रुद्रदैवत्यं- जगती छन्दः
अथर्ववेदस्य- वैतान सगोत्रं- ब्रह्मदैवत्य मनुष्टुच्छन्दः।। 1।।
अथ चतुर्थखण्डे व्याख्यायते-
अथर्ववेदस्येति। अथर्ववेदस्य नव भेदा भवन्ति नव शाखा भवन्तीत्यर्थः। तानाह- पैप्पला- दान्ता- प्रदान्ता- औता- जाबाला- शौनका- ब्रह्मपलाशा- कुनखीवेददर्शी- चारणविद्याश्चेति। तेषामध्ययनं द्वादशैव सहस्राणि मन्त्राणाम्।
कीदृशानि? पञ्चकल्पानि भवन्ति। अत्र बहुवचनात् ते बहवः। यत्र एकवचनं स एकः। तेषामध्यायनं शाखया उच्यते। द्वादशसहस्राणि मन्त्राणां कीदृशानि? एकास्मिन्कल्पे कल्पे पञ्चशतानि मन्त्राणाम्।
कल्पान्याह- नक्षत्रकल्पः- विधानकल्पः- विधिविधानकल्प- स्संहिता कल्पः- शान्तिकल्प- इति पञ्च कल्पाः।
तत्र वेदानां चत्वार उपवेदा भवन्ति। यथा- ऋग्वेदस्योपवेद आयुर्वेदः चिकित्सा शास्त्रम्। यजुर्वेदस्योपवेदो धनुर्वेदो युद्धशास्रम्। सामवेदस्योपवेदो गान्धर्ववेद स्सङ्गीतशास्रम्। अथर्ववेदस्यार्थशास्रं नीतिशास्रम् शस्त्रशास्रं विश्वकर्मादिप्रणीत शिल्पशास्त्रम्- इति भगवान्वेदव्यासः स्कन्दः कुमारो वाह।
य इमे चत्वारो वेदो उक्तास्तेषां मध्ये एकैकस्य कीदृशं रूपं आकारः तत्तद्वर्णं सितासितादिविधः प्रकारश्चोच्यते।
तत्रादौ ऋग्वेदस्वरूपमाह-
ऋग्वेदः पद्मपत्राक्षः - पद्मपत्रं कमलदलं तद्वदक्षिणी नेत्रे यस्य सः। सुविभक्तग्रीवः- सुविभक्ता रेखात्रयाङ्किता ग्रीवा यस्य सः। कुञ्चितकेशश्मश्रुः कुञ्चितावलीमन्तः केशाः शिरसिजाः श्मश्रूणि मुखरोमाणि यस्य सः। श्वेतवर्णो। वर्णेन तु ककुब्वर्णो न, श्वेतवर्णः श्वेतो वर्णो यस्य सः। कीर्तितं प्रमाणं- तावत्तिष्ठन् वितस्तीः पञ्च, तावत्साकल्येन, पञ्च वितस्ती र्भवन्ति। ह्येतत्प्रमाणमृग्वेदस्य कीर्तितमुक्तम्। वितस्तिशब्दो द्वादशाङ्गुलात्मकः। सार्द्धहस्तद्वय प्रमाणमित्यर्थः।
यजुर्वेदस्वरूपमाह-
यजुर्वेदः पिङ्गाक्षः पिङ्गे पीते अक्षिणी यस्य सः। कृशमध्यः स्थूलगलकपोलः। कृशं मध्ये कटिप्रदेशे यस्य सः। स्थूलौ गलकपोलौ यस्य सः। ताम्रवर्णः ताम्रवदाचरितो रक्तो वर्णो यस्य सः। यद्वा कृष्णः वर्णो यस्य सः। दीर्घत्वेनोच्चत्वेन षट्प्रादेशमात्रप्रमाणं यस्य सः। प्रादेशस्तु प्रदेशिन्या इत्यभिधानोक्तेः। अङ्गुष्ठप्रदेशिन्यो र्विहितत्वात् प्रमाणप्रादेशो दशाङ्गुलः। तादृशाः षट्प्रादेशाः प्रमाणं षष्ट्यङ्गुलं सार्द्धद्वयहस्तमित्यर्थः।
सामवेदस्वरूपमाह-
सामवेदो नित्यं स्रग्वी स्रजो माला यस्य सन्तीति स्रग्वी। अस्मायामेधास्रजो विनिः (अष्टा5 अ 2 पा 121सू)। इति सूत्राद्विनि प्रत्ययः। नित्यं पुष्पमालाधारी। सुप्रयतः यमनियमवान्। शुचिवासाः शुचि शुद्धं वासो वस्त्रं यस्य सस शुद्धवस्त्रधारी। शमः शान्तिरस्यास्तीति शमी शान्तमनाः। दान्तो नियतबाह्येन्द्रियः। बृहन्महच्छरीरं यस्य सः। शमीतरोर्दण्डो यस्य सः शमीदण्डी। कातरे अल्पे अक्षिणी द्वे नेत्रे यस्य सः। काञ्चननयनो वा। आदित्यस्य भानोर्वर्ण इव वर्णो यस्य सः। श्वेतवर्णो वा नवारत्निप्रमाणं यस्य सः। सार्द्धचतुष्टयहस्तदीर्घइत्यर्थः।
अथर्ववेद स्वरूपमाह-
तीक्ष्णः उग्रः। प्रचण्डः क्रोधी। कामरूपी कामेन रूपाणि यस्य सः, स्वेच्छारूपधारी। विश्वस्य आत्मा जीवनम्, विश्वस्य कर्त्ता स्रष्टा च उपनिषद्बाहुल्यात्। क्षुद्रकर्मा क्षुद्राणि कर्माणि यस्य सः अभिचार कृत्याप्रयोजक मन्त्रबाहुल्यात्। स्वशाखाध्यायी अथर्वणि विशेषः। प्राज्ञश्च। महानीलोत्पलवर्णो वर्णेन श्यामकमल इव वर्णो यस्य सः श्यामसुन्दरः। दश अरत्नयः अकनिष्ठिकहस्तः प्रमाणं यस्य पञ्चहस्तप्रमाण इत्यर्थः। अथर्ववेदस्य रूपान्तरे पाठान्तरश्च- श्वेतसाध्यवशी च सजलमूर्द्धनि च गालवः, स्वदारजुष्टः परस्त्रियाः स्तन्यपश्चेति।
अथ वेदानां गोत्रदेवताछन्दांस्याह-
ऋग्वेदस्यात्रेयसगोत्रम्। आत्रेयाः सगोत्राः समानगोत्रा यस्य तत्। अत्रिगोत्र ऋग्वेद इत्यर्थः। सोमदैवत्यं यस्य तत्। गायत्रीछन्दो यस्य तत्। एवमग्रेपि व्याख्यातव्याम्।
अथ यजुर्वेदस्य काश्यप सगोत्रम्- इन्द्रदैवत्यं- त्रिष्टुप्छन्दः।
अथ सामवेदस्य भारद्वाज सगोत्रं- रुद्रदैवत्यं- जगती छन्दः।
अथर्ववेदस्य- वैतान सगोत्रं- ब्रह्मदैवत्यं- अनुष्टुप्छन्दः।। 1।।
इति चरणव्यूहे चतुर्थखण्डव्याख्या समाप्ता।
इति चतुर्थः अथर्ववेदखण्डः समाप्तः।