उपदेश रत्नावली - सज्जन पथम्

गोविन्दं स्तुहि, केशवं भज हरिं, लोकार्ति नाशं कुरु

क्रोधं सञ्जय, कामितं त्यज सदा, मोहं पराभावय।

धर्मं पालय, शांति माप्नुहि चिरं, सत्यं वद प्रीणयन्

सत्संगे रममाण एधि, भविता ते सच्चिदानन्दता।। 1

शिवाभिषेकः

गंगा पापहरा, प्रयागसलिलं, रेवाजलं मंगलम्

कासारं किल मानसं, भुवि महापुण्यप्रदेष्वेव यत्।

तीर्थस्नानमघक्षयं भवति, तल्लिङ्गाभिषेकेण वै

शम्भोः पूर्णकृपाविशेषतो हि लभसे, ते सच्चिदानन्दता।। 2

नीराजनम्

कर्पूरं घृतवर्ति राजि सहितं संदीपये.स्संविदे

एकं ब्रह्म, परात्म जीवमुभयं, लोकान् त्रयं स्मारयेत्।

धर्मादीन् चतुर.श्चतुष्टय.महो प्राणानिदं पञ्चकं

देवं पश्य सुदीपदर्श विधिना, ते सच्चिदानन्दता।। 3

गणपति पूजा

वन्दस्वाग.सुतासुतं गणपतिं, कार्येषु विघ्नान् जहि

दूर्वामर्पय, साधयस्व सकलां सत्कामनां, सन्मतिम्।

हुत्वा मोदक लाज साज्य समिधो दूर्वाङ्कुरान् संपदं

मेधां भूरि यशांसि मित्र लभसे, श्री सच्चिदानन्दताम्।। 4

सूर्यनमस्कारः

1 मित्रं मित्र 2 रविं च 3सूर्यममितं 4भानुं 5खगं 6पूषणम्

खद्योतं च 7हिरण्यगर्भ मतुलं नित्यं 8मरीचिं नम।

9आदित्यं 10सवितार11मर्क मुदितं चारोग्यदं 12भास्करम्

एवं द्वादश वंदितो दिशति ते, तां सच्चिदानन्दताम्।। 5

प्राथमिक कर्तव्यम्

सत्यं त्वं वद धर्ममाचर सखे मास्तु प्रमादस्तु ते

स्वाध्यायात् प्रिय माहरस्व गुरवे तन्तुं प्रजायास्तनु।

सत्याद्.धर्मविभूतितो हि कुशलात् दैवात् पितुः कर्मतः

मा भूत् प्रच्युति,रुत्तमा प्रभविता ते सच्चिदानन्दता ।। 6

गुरुजन भावना

दृश्येरन् भवता जनाः सुरनिभाः माता पिता सर्वधा

आचार्योतिथिरुत्तमा,स्तदितरे ये‌‌౽भ्यागताः जीविनः । दर्शंदर्शमनर्घदैवतगणं दैनंदिनं श्रेयसे

वेदोद्बोधित एधमानसुकृत, स्यात् सच्चिदानन्दता ।। 7

आचरणीय पन्थाः

शिष्टाचार परायणै.र्गुरुजनैः आचर्यते कर्म यत्

संगृह्या अनवद्यमत्र सकलं सेवस्व भक्त्या युतः ।

धर्मोपेत.मिहाद्रियस्व नियत,स्तद्भिन्नमुत्सृज्य तत्-

त्वंशब्दैक्य रहस्यमाकलय भो,स्स्यात् सच्चिदानन्दता ।। 8

गुरुजनेषु श्रद्धा

अस्मत्तो बहवो वसंति कृतिनः श्रेयोवसीयोहिताः

तत्तत्दर्शनमात्रतस्तु भवता देयासिका श्रद्धया।

शक्ये स्यात् भवतोर्पणे, सुजन भीः श्रीर् ह्रीश्च संवित् सुधीः

नम्रत्वा.द्गुरुसन्निधौ विचिनुषे तां सच्चिदानन्दताम्।। 9

धर्मश्रद्धा विशेषः

धर्मे श्रद्दधतापि तत्र भवता नित्यावधेयं शृणु

कर्मानुष्ठितिरुत्तमा तव, न चेदन्यप्रपीडावहा।

आयुक्तस्य च धर्मकामनिरतेः संमर्शिता युक्तता

प्रेयोवाक्य.मरूक्षितं भवतु ते, सा सच्चिदानन्दता।। 10

क्रीडाः 1

खेला मानसमोदहेतु रतुला कायस्य संवर्धनी

अल्पज्ञैरिह कार्यरूपजनिभी रम्या विधीयेत चेत्।

सर्वज्ञेन परात्परेण रचिता सर्गस्थिती तन्वती

सा लीला रभसं करोति हि मुदं सा सच्चिदानन्दता।। 11

क्रीडाः 2

स्त्रैणं पौंस्न.महो रमेत कुतुकात् क्रीडोत्सवे संतते

विस्मृत्यापि च वैधकार्यनिचयं वर्णाश्रमैरञ्चितम्।

दृश्या सा घनसांद्र मर्म मसृणा ब्रह्मण्य खेला हला

या लीला निखिलप्रलापनयुता सा सच्चिदानन्दता।। 12

क्रीडाः 3

एकं कन्दुक मस्तु वस्तु तदित.श्चिक्रीड्यते यज्जनै:

तत्रास्ते जनुषामभीक्ष्ण निरतिश्चापेक्षिकी संगति:।

यद्ब्रह्मांडततिं प्रभूत गोलशतिकां संसृज्य खेलत्यहो

तत्रास्तां भवदीयरक्तिरमिता सा सच्चिदानन्दता।। 13

भोजनम् 1

भुंजीथा अलमोदनं बहुविधैर् धान्यैस्सुपक्वं हितं

संवर्धेत शरीरमस्य पचनात् कायानलस्योर्जितं।

प्राण्यंते च कणाः परार्धशस्तनुगताः नैसर्ग शक्त्यर्पिता:

तां ध्यायस्व निदानशक्ति.ममितां, सा सच्चिदानन्दता।।14

भोजनम् 2

निष्क्रीयापि च भोजनं, सुरुचिरं मत्वा जनो मोदते

स्वादुत्वं चतुरंगुले तु रसनादेशे सुसंमीयते।

सर्वाहार निकाय युक्त रुचयो यस्मात् परस्ताद् गता:

एकत्वं, स्मर तन्निधेहि हृदये, सा सच्चिदानन्दता।। 14

भोजनम् 3

आम्लं तिक्त मुतापि रूक्ष लवणं क्षारं च माधुर्यकं

एतैस्सर्वरुचि प्रभेद सहिताः मध्याल्प तीव्रा रसा:।

आहारेषु निविश्य कायनिचयं पुष्यंति रक्षंति यत्

शक्तिं प्राणमुखी.मनुश्रयन्ति सततं, सा सच्चिदानन्दता।।16

भोजनम् 4

प्राणापान समायुतो ज्वलति ते कुक्षौ कृशानुस्सखे ‍‍‌

सर्वेभ्योपि सदागतिभ्य उदये नक्तं च पंचाहुतीः।

हुत्वा प्रार्थय मानसीं च वचसां सत्यैकभाषां चिरम्

वाय्वग्नी दिशतो मुदे च भवत,स्स्यात् सच्चिदानन्दता।।17

वसनम् 1

सौम्यं क्षौम.मुदीरितं पुनरिदं ध्यायस्व तद्देवताः

कार्पासे कृमितन्तु रोमजनिते वाया धियो देवताः।

रेवत्योपि च कृत्तिका दिविषद- स्सन्दान्ति सीव्यन्ति ताः

देवी.स्संस्मर, वाससी धर सखे- स्यात् सच्चिदानन्दता।। 18

वसनम् 2

तूषाधान.मिहानलस्य, मरुत.स्स्या.द्वातपानं पुनः

विश्वेदेव महौषधौ च वसनस्यौतुप्रघातौ मतौ।

नीवि.स्स्यादिह पैतृको, दिनमणेः प्राचीनतान,स्ततो

तीकाशा उडुदैवता, अवगति स्सा सच्चिदानन्दता।। 19

वसनम् 3

देवौघो निवसेत् तवैव वसने जानीहि तन्मङ्गलम्

दैव्या भावनया ध्रियेत वसनं यस्मात् पवित्रं मतम्।

प्रावारार्थ.मलङ्करिष्णु भवता. दाच्छादनार्थं धरेः

दीक्षायै तदशीर्णधौतयुगलं, स्यात् सच्चिदानन्दता।। 20

दाम्पत्यम् 1

स्वं गोत्रं परिवर्धयेवहि ततो जाता प्रजा सौख्यदा

लभ्येतेति पितॄण मुक्तिरसमा, संस्कार संस्थापनात्।

स्त्री पुंसौ परिणीय संप्रभवतो जायापती धर्मिणौ

एवं चक्र.मभीप्सितं भवति चेत्, स्यात् सच्चिदानन्दता।।21

दाम्पत्यम् 2

नारीं पश्यति कामुकश्च, पुरुषं तद्रागिणी भामिनी

चर्मण्येव तदीयरक्ति.रभित, स्संस्पर्शने रेतस:।

देहे शेषित धातु पंचकदृशो बीभत्सया बिभ्यति

कामं, काम.मित.स्तरन्तु विरता:,स्यात् सच्चिदानन्दता।। 22

स्नानम्

नित्यं स्नाहि शरीर शौचविधये देवं स्मरन् श्रीहरिम्

कासारे सरिति स्वकूपकुहरे श्वभ्रे च भांडेथवा।

स्नानं गांगजलेन संभवतु ते नित्यं मनो निश्चयात्

अन्तश्शौच मभीप्स निर्मलतनो, स्यात् सच्चिदानन्दता।। 23

उपवीतम्

बाहुं दक्षिणमुद्धरस्व तदधो वासोजिनं तांतवम्

सूत्रं धारय, सव्य मेतदुदितं यज्ञोपवीतं सखे।

दैवे कर्मणि यज्ञिये हि विहिता सैषा व्यवस्था श्रुता

त्रिष्वाद्येषु तवाश्रमेषु, भविता सा सच्चिदानन्दता।। 24

फालाङ्कनम्

स्नातास्नात जनै.रवश्यकरणं नामांकनं फालके

शैवं लांछन.मस्तु भस्म तिलकं गन्धोपि निर्माल्यगम्।

गोपीचंदनलेपनेन सुलभं संमृड्ढि रेखा विधेः

शक्तिं स्वां प्रकटीकुरुष्व धृतिमन्, स्यात् सच्चिदानन्दता।। 25

तीर्थम्

सालग्राम शिलाभिषेचन गतं तीर्थं समास्वादय

विष्णो: पादतलामृतं पिब सुधीः पीयूषतुल्यं हि तत्।

व्याधिं हन्त्यपमृत्युहर्तृ दुरितं चेतोमलं नाशयेत्

आसेवस्व सुतीर्थ तीर्थमेत.दिषितं, स्यात् सच्चिदानन्दता।। 26

प्राणायामः

वायुर्वर्धयतीह देहमतुलं प्राणश्च तन्निर्गतिः

शीर्षण्याः खलु सप्त सन्ति, तदतः प्राणाववांचौ नव।

प्राणायाम मजस्रमभ्यस सखे चेतोग्रहः केवलम्

प्राण,स्तत्र तवैव मुक्ति.रुदिता स्यात् सच्चिदानन्दता ।। 27

सङ्गीतम्

वादित्रं कल गीत वाद्य सहितं चेतांसि संमोदयेत्

संमोदोपि विकत्थनाय भवतात् दैवत्वभावो न चेत्।

वृज्या आहतनाद,मस्तु रमणं तेनाहते सर्वदा

नादे लापय मानसं, सुलभतां तां सच्चिदानन्दताम्।। 28

पुरुषार्थाः

कामार्थाधिकलब्धये जनगण.श्श्राम्ये.दशांतो वृथा

त्यक्त्वा धर्म.मनिश्चया.दवितथं गम्यं च मोक्षं विना।

धर्मार्थो यदि काममोक्षसहितो, नंदे.द्भवान् निस्तुलं

जानीता.दुपदेशसंस्कृत सुधी:, स्यात् सच्चिदानन्दता।। 29

उपरमः

कृत्वा कर्मशतानि चाश्य पदवीः, संजीर्य देहं स्वकम्

किं किं कामयसे यशो, रयि.मलं, सर्वेप्सितं संत्यज।

ऐश्वर्यं निजमाकलय्य परितो भीतिं विशोषय्य ते

सर्वात्मत्व विभूतिमीरय सखे, स्यात् सच्चिदानन्दता।। 30

परं ब्रह्म

किं ब्रह्मेति विचारितं, शृणु सखे, एकं बृह.न्मंगळं

सत्यं ज्ञान मनन्त मच्युत मजं वाचामनीक्ष्यं ध्रुवम्।

देशं कालमतीत्य वर्तत इदं भेदातिगं शाश्वतम्

भूतं भौतिकजात.मत्र, भवतात् सा सच्चिदानन्दता।। 31

उपसंहारः

क्षेये वस्तुनि संत्यज स्वकमतिं नित्ये मनस्स्थापय

हेयादेयसमस्त. मात्म.निहितं सर्वं समं भावय

आत्मानात्म विवेकसंप.दुदिता नित्या विशुद्धा सुधा

सद्गुर्वर्चन संमिता भवतु ते, सा सच्चिदानन्दता।। 32

मौनम्

मौनं मोक्षकवाटरूप मनघं स्वामी भवास्य त्रिकं

हार्दं वाचिकमस्तु कायिकमिदं तूष्णींभवत्सौख्यता।

आमावास्यमिहाभ्यसन् समुदयं प्राप्नुष्व मौनीभवन्

स्वान्तं सेन्द्रियमस्तु सुस्थमथ ते स्यात् सच्चिदानन्दता।। 33

जन्मदिन कृत्यम्

लब्ध्वा जन्म किमत्र चेष्टितमिति स्मृत्या समारभ्य ते

घस्रं नित्यकृतिं समापय ततो वन्दस्व पित्रोः पदम्।

देवं जन्मदिने प्रपूज्य जुहुधि ज्वालातनुं बान्धवान्

मित्राण्यार्तजनं सुभोज्य मुदितः स्याः सच्चिदानन्दनात्।। 34।।

सुवचनमणिमाला – वंशीकृष्ण घनपाठी

फलश्रुतिः

एकं वाक्यमनुत्तमं शृणुहि रे, तेनैव ते जन्मनः

दीर्घाली तु निरुध्यते, परतमं गम्यं प्रणेनीयसे।

वादं वादमतीव पूर्णकृपया योबोधय.त्सद्गुरुः

तद्वाक्यौघमुदं जुषस्व मनसा, सा सच्चिदानन्दता।। 33